|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.60. अध्यायः 060
Mahabharata - Sabha Parva - Chapter Topics
शर्ववरगर्वितेन बाणासुरेण स्वतनयया उषया सह गूढं रममाणस्य अनिरुद्घस्य कारा गृहप्राषणम्॥1॥ नारदाद्विदितपौत्रवृत्तेन कृष्णेन सरामप्रद्युम्नेन बाणं निर्जित्य उषया सह अनिरुद्घानयनम्॥ 2॥
Mahabharata - Sabha Parva - Chapter Text
भीष्म उवाच॥
द्वारकायां ततः कृष्णः स्वदारेषु दिवानिशम्।
सुखं लब्ध्वा महाराज प्रमुमोद महायशाः॥ 2-60-1(13703)
पौत्रस्य कारणाच्चक्रे विबुधानां प्रियं तदा।
सावसवैः सुरैः सर्वैर्दुष्करं भरतर्षभ॥ 2-60-2(13704)
बाणो नामाऽभवद्राजा बलेर्ज्येष्ठसुतो बली।
वीर्यवान्भरतश्रेष्ठ स च बाहुसहस्रवान्॥ 2-60-3(13705)
ततस्तेपे तपस्तीव्रं सत्वेन मनसा नृप।
रुद्रमाराधयामास स च बाणः समा बहु॥ 2-60-4(13706)
तस्मै बहुवरा दत्ताः शङ्करेण महात्मना।
तांश्च लब्ध्वा वरान्बाणो दुर्लभानसुरैर्भुवि॥ 2-60-5(13707)
स शोणितपुरे राज्यं चकाराप्रतिमो बली।
त्रासिताश्च सुराः सर्वे तेन बाणेन पाण्डव॥ 2-60-6(13708)
विजित्य विबुधान्सेन्द्रान्बाणः संवत्सरान्बहून्।
अशासत महद्राज्यं कुबेर इव भारत॥ 2-60-7(13709)
ततो राजन्नुषा नाम बाणस्य दुहिता यथा।
येनोपायेन कौन्तेय अनिरुद्धो महाद्युतिः॥ 2-60-8(13710)
प्राद्युम्निस्तामुषां प्राप्य प्रच्छन्नः प्रमुमोद ह।
अथ बाणो महातेजास्तदा तत्र युधिष्ठिर ॥ 2-60-9(13711)
तं गृह्यनिलयं ज्ञात्वा प्राद्युम्निं सुतया तदा।
गृहीत्वा कारयामास वस्तुं कारागृहे बलात्॥ 2-60-10(13712)
स कुमारः सुखार्होऽथ तदा दुःखसमन्वितः।
बामेन घातितो राजन्ननिरुद्धो मुमोह च॥ 2-60-11(13713)
एतस्मिन्नेव काले तु नारदो मुनिपुङ्गवः।
द्वारकां प्राप्य कौन्तेय कृष्णं दृष्ट्वा वचोऽब्रवीत्॥ 2-60-12(13714)
कृष्ण कृष्ण महाबाहो यदूनां कीर्तिवर्धन।
पौत्रस्ते बाध्यमानोऽत्र बाणेनामिततेजसा॥ 2-60-13(13715)
कृच्छ्रं प्राप्तोऽनिरुद्धो वै शेते कारागृहे सदा।
एतदुक्त्वा सुरर्षिर्वै बाणस्याथ पुरं ययौ॥ 2-60-14(13716)
नारदस्य वचः श्रुत्वा ततो राजञ्जनार्दनः।
जाहूय बलदेवं हि प्रद्युम्नं च महाद्युतिम्॥ 2-60-15(13717)
आरुरोह गरुत्मन्तं ताभ्यां सह जनार्दनः।
ततः सुपर्णमारुह्य जयाय भरतर्षभ॥ 2-60-16(13718)
जग्मुः क्रुधा महावीर्या बाणस्य नगरं प्रति।
अथासाद्य महाराज तत्पुरं ददृशुश्च ते॥ 2-60-17(13719)
ताम्रप्राकारसङ्गुप्तां हेमप्रासादसङ्कुलाम्।
दृष्ट्वा मुदा युताः सर्वे विस्मयं परमं ययुः॥ 2-60-18(13720)
तथा बाणपुरस्यासन्द्वारस्था देवताः सदा।
महेश्वरो गुहश्चैव भद्रकाली विनायकः॥ 2-60-19(13721)
अथ कृष्णो बलाज्जित्वा द्वारपालान्युधिष्ठिर।
सुसङ्क्रुद्धो महातेजाः शङ्खचक्रगदासिभृत्॥ 2-60-20(13722)
आससादोत्तरद्वारं शङ्करेणाभिरक्षितम्।
तत्र तस्थौ महातेजाः शूलपाणिर्महेश्वरः॥ 2-60-21(13723)
पिनाकं सशरं गृह्य बाणस्य हितकाम्यया।
ज्ञात्वा तमागतं कृष्णं व्यादितास्यमिवान्तकम्॥ 2-60-22(13724)
ततस्तौ चक्रतुर्युद्धं वासुदेवमहेश्वरौ।
तद्युद्धमभवद्घोरमचिन्त्यं रोमहर्षणम्॥ 2-60-23(13725)
अन्योन्यं तौ ततक्षाते अन्योन्यजयकाङ्क्षिणौ।
दिव्यान्यस्त्राणि तौ देवौ क्रुद्धौ मुमुचतुस्तदा॥ 2-60-24(13726)
ततः कृष्णो रणं कृत्वा मुहूर्तं शूलपाणिना।
विजित्य तं महादेवं ततो युद्धे शूलपाणिना।
अन्यांश्च जित्वा द्वारस्थान्प्रविवेश पुरोत्तमम्॥ 2-60-25(13727)
प्रविश्य बाणमासाद्य स तत्राथ जनार्दनः।
चक्रे युद्धं महाक्रुद्धस्तेन बाणेन भरतर्षभ। 2-60-26(13728)
बाणोऽपि सर्वशस्त्राणि शितानि भरतर्षभ।
सुसङ्क्रुद्धस्तदा युद्धे पातयामास केशवे॥ 2-60-27(13729)
पुनरुद्यम्य शस्त्राणि सहस्रं सर्वबाहुभिः।
मुमोच बाणः सङ्क्रुद्धः कृष्णं प्रति रणाजिरे॥ 2-60-28(13730)
ततः कृष्णस्तदा कृत्त्वा तानि सर्वाणि भारत।
कृत्त्वा मुहूर्तं बाणेन युद्धं राजन्नगोक्षजः॥ 2-60-29(13731)
चक्रमुद्यम्य रोषाद्वै दिव्यं शस्त्रोत्तमं ततः।
सहस्रबाहूंश्चिच्छेद बाणस्यामिततेजसः॥ 2-60-30(13732)
ततो बाणो महाराज कृष्णेन भृशपीडितः।
भिन्नबाहुः पपाताशु विशाख इव पादपः॥ 2-60-31(13733)
स पातयित्वा बाणैस्तं बाणं कृष्णस्त्वरान्वितः।
प्राद्युम्निं मोचयामास क्षिप्रं राजगृहात्तदा॥ 2-60-32(13734)
मोक्षयित्वाऽथ गोविन्दः प्राद्युम्निं सह भार्यया।
बाणस्य सर्वरत्नानि असङ्ख्यानि जहार सः॥ 2-60-33(13735)
गोधनानि च सर्वस्वं स बाणस्यालये बलात्।
जहार च हृषीकेशो यदूनां कुलवर्धनः॥ 2-60-34(13736)
ततः स सर्वरत्नानि चाहृत्य मधुसूदनः।
क्षिप्रमारोपयाञ्चक्रे सर्वस्वं गरुडोपरि॥ 2-60-35(13737)
त्वरयाऽथ स कौन्तेय बलदेवं महाबलम्।
प्रादुम्निं च महावीर्यमनिरुद्धं महाद्युतिम्॥ 2-60-36(13738)
उषां च सुन्दरीं राजन्भृत्यदारगणैः सह।
सर्वानेतान्समारोप्य गरुडोपरि वीर्यवान्॥ 2-60-37(13739)
मुदा युक्तो महातेजाः पीताम्बरधरो बली।
दिव्याभरमचित्राङ्गः शङ्कचक्रगदासिभृत्। 2-60-38ca आरुरोह गरुत्मन्तमुदयं भास्करो यथा॥ ॥ 2-60-38(13740)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि षष्टितमोऽध्यायः॥ 60॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|